|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.21. अध्यायः 021
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥ षोडशदिवसयुद्धोपसंहारः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-21-0x(4870)(55867)
ततः कर्णं पुरस्कृत्य त्वदीया युद्वदुर्मदाः।
पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम्॥ 8-21-1(55868)
द्विरदनररथाश्वशङ्खशब्दैः
परिहृषिता विविधैश्च शस्त्रपातैः।
द्विरदरथपदातिसादिसङ्घाः
परिकुपिताभिमुखाः प्रजघ्निरे ते॥ 8-21-2(55869)
शितपरश्वथसासिपट्टसै--
रिषुभिरनेकविधैश्च सूदिताः।
द्विरदरथहया महाहवे
वरपुरुषैः पुरुषाश्च वाहनैः॥ 8-21-3(55870)
कमलदिनकरेन्दुसन्निभैः
सितदशनैः सुमुखाक्षिनासिकैः।
रुचिरमकुटकुण्डलैर्मही
पुरुषशिरोभिरुपस्तृता बभौ॥ 8-21-4(55871)
परिघमुसलशक्तितौमरै--
र्नखरभुशुण्डिगदाशतैर्हताः।
द्विरदनरहयाः सहस्रशो
रुधिरनदीप्रवहास्तदाऽभवन्॥ 8-21-5(55872)
प्रहतरथनराश्वकुञ्जरं
प्रतिभयदर्शनमुल्बणव्रणम्।
तदहितहतमाबभौ बलं
पितृपतिराष्ट्रमिव प्रजाक्षये॥ 8-21-6(55873)
अथ तव नरदेव सैनिका--
स्तव च सुताः सुरसूनुसन्निभाः।
अमितबलपुरः सरा रणे
कुरुवृषभाः शिनिपुत्रमभ्ययुः॥ 8-21-7(55874)
तदतिरुधिरभीममाबभौ
पुरुषवराश्वरथद्विपाकुलम्।
लवणजलसमुद्वतस्वनं
बलमसुरामरसैन्यसप्रभम्॥ 8-21-8(55875)
सुरपतिसमविक्रमस्तत--
स्त्रिदशवरावरजोपमं युधि।
दिनकरकिरणप्रभैः पृषत्कै
रवितनयोऽभ्यहनच्छिनिप्रवीरम्॥ 8-21-9(55876)
तमपि सरथवाजिसारथिं
शिनिवृषभो विविधैः शरैस्त्वरन्।
भुजगविषसमप्रभै रणे
पुरुषवरं समवास्तृणोत्तदा॥ 8-21-10(55877)
शिनिवृषभशरैर्निपीडितं
तव सुहृदो वसुषेणमभ्ययुः।
त्वरितमतिरथा रथर्षभं
द्विरदरथाश्वपदातिभिः सह॥ 8-21-11(55878)
तदुदधिनिभमाद्रवद्बलं
त्वरिततरैः समभिद्रुतं परैः।
द्रुपदसुतमुखैस्तदाऽभवत्
पुरुषरथाश्वगजक्षयो महान्॥ 8-21-12(55879)
अथ पुरुषवरौ कृताह्निकौ
भवमभिपूज्य यथाविधि प्रभुम्।
अरिवधकृतनिश्चयौ द्रुतं
तव बलमर्जुनकेशवौ सृतौ॥ 8-21-13(55880)
जलदनिनदनिःस्वनं रथं
पवनविधूतपताककेतनम्।
सितहयमुपयान्तमन्तिकं
कृतमनसो ददृशुस्तदाऽरयः॥ 8-21-14(55881)
अथ विष्फार्य गाण्डीवं रथे नृत्यन्निवार्जुनः।
शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा॥ 8-21-15(55882)
रथान्विमानप्रतिमान्मज्जयन्सायुधध्वजान्।
ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत्॥ 8-21-16(55883)
गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान्।
सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम्॥ 8-21-17(55884)
तमन्तकमिव क्रुद्धमनिवार्यं महारथम्।
दुर्योधनोऽभ्ययादेको निघ्नन्बाणैरजिह्मगैः॥ 8-21-18(55885)
तस्यार्जुनो धनुः सूतमश्वान्केतुं च सायकैः।
हत्वा सप्तभिरेकेन च्छत्रं चिच्छेद पत्रिणा॥ 8-21-19(55886)
नवमं च समाधाय व्यसृजत्प्राणघातिनम्।
दुर्योधनायेषुवरं तं द्रौणिः सप्तधाऽच्छिनत्॥ 8-21-20(55887)
ततो द्रौणेर्धनुश्छित्वा हत्वा चाश्वरथाञ्शरैः।
कृपस्यापि तदत्युग्रं धनुश्चिच्छेद पाण्डवः॥ 8-21-21(55888)
हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वांस्तदाऽवधीत्।
दुःशासनस्येष्वसनं छित्त्वा राधेयमभ्ययात्॥ 8-21-22(55889)
अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः।
विद्व्वा विव्याध विंशत्या कृष्णं पार्थं पुनःपुनः॥ 8-21-23(55890)
न ग्लानिरासीत्कर्णस्य क्षिपतः सायकान्बहून्।
रणे विनिघ्नतः शत्रून्क्रुद्धस्येव शतक्रतोः॥ 8-21-24(55891)
अथ सात्यकिरागत्य कर्णं विद्द्वा शितैः शरैः।
नवत्या नवभिश्चोग्रैः शतेन पुनरार्पयत्॥ 8-21-25(55892)
ततः प्रवीराः पार्थानां सर्वे कर्णमपीडयन्।
युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः॥ 8-21-26(55893)
उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च।
चेदिकारूशमात्स्यानां केकयानां च यद्बलं॥ 8-21-27(55894)
चेकितानश्च बलवान्धर्मराजश्च सुव्रतः।
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः॥ 8-21-28(55895)
परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन्।
भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे धृताः॥ 8-21-29(55896)
तां शस्त्रवृष्टिं बहुधा कर्णश्छित्त्वा शितैः शरैः।
अपोवाहास्त्रवीर्येण द्रुमं भङ्क्त्वेव मारुतः॥ 8-21-30(55897)
रथिनः समहामात्रान्गजानश्वान्ससादिनः।
पत्तिव्रातांश्च सङ्क्रुद्वो निघ्नन्कर्णो व्यदृश्यत॥ 8-21-31(55898)
तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा।
विशस्त्रपत्रदेहासु प्राय आसीत्पराङ्मुखम्॥ 8-21-32(55899)
अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्मयन्।
दिशं खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः॥ 8-21-33(55900)
मुसलानीव सम्पेतुः परिघा इव चेषवः।
शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि चापरे॥ 8-21-34(55901)
तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम्।
निमीलिताक्षमत्यर्थं बभ्राम च ननाद च॥ 8-21-35(55902)
निष्कैवल्यं तदा युद्वं प्रापुरश्वनरद्विपाः।
हन्यमानाः शरैरार्तास्तदा भीताः प्रदुद्रुवुः॥ 8-21-36(55903)
त्वदीयानां तदा युद्वे संसक्तानां जयैषिणाम्।
गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान्॥ 8-21-37(55904)
तमसा च महाराज रजसा च विशेषतः।
न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाऽशुभम्॥ 8-21-38(55905)
ते त्रस्यन्तो महेष्वासा रात्रियुद्वस्य भारत।
अपयानं ततश्चक्रुः सहिताः सर्वयोधिभिः॥ 8-21-39(55906)
कौरवेष्वपयातेषु तदा राजन्दिनक्षये।
जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः॥ 8-21-40(55907)
वादित्रशब्दैर्विविधैः सिंहनादैः सगर्जितैः।
परानुवहन्तश्च स्तुवन्तश्चाच्युतार्जुनौ॥ 8-21-41(55908)
कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते।
आशीर्वाचः पाण्डवेषु प्रायुञ्जन्त नरेश्वराः॥ 8-21-42(55909)
ततः कृतेऽवहारे च प्रहृष्टास्तत्र पाण्डवाः।
निशायां शिबिरं गत्वा न्यवसन्त नरेश्वराः॥ 8-21-43(55910)
ततो रक्षः पिशाचाश्च श्वापदाश्चैव सङ्घशः।
जग्मुरायोधनं घोरं रुद्रस्याक्रीडसन्निभम्॥ ॥ 8-21-44(55911)
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे एकविंशोऽध्यायः॥ 21 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-21-8 लवणजलः क्षारसमुद्रः॥ 8-21-9 त्रिदशवरावरजोपमं विष्णुतुल्यम्॥ 8-21-13 सृतावागतौ॥ 8-21-36 निष्कैवल्यं निश्चितं कैवल्यं मरणं यस्मिंस्तत्तथा॥ 8-21-37 प्रत्यपद्यत प्रविष्टः॥ 8-21-21 एकविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|